Laxmi maa stotram, laxmi dhyan mantra, laxmi maa pujan mantra

Laxmi maa mantra


 

श्रीलक्ष्म्याः स्तोत्राणि लक्ष्म्या ध्यानम् ॥ 


सहस्त्रदलपास्य कर्णिकावासिनी पराम् ।

 शरत्पार्वणकोटीन्दुप्रभाजुष्टवराम्बराम् स्वतेजसा। 

प्रज्वलन्ती सुखदृश्यां मनोहराम् । 

प्रतप्तकाञ्चननिभा शोभां मूर्तिमती सतीम् ।।

 रत्नभूषणभूषाढ्यां शोभिता पीतवाससा । 

ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ 

सर्वसम्पत्प्रदात्री च महालक्ष्मी भजे शुभाम् । ( प्रकृतिखण्ड ३ ) 


 लक्ष्म्या मन्त्रः 

लक्ष्मीर्मायाकामवाणी ततः कमलवासिनी । 

स्वाहान्तो वैदिको मन्त्रराजोऽयं द्वादशाक्षरः ॥ 

कुबेरोऽनेन मन्त्रेण सर्वैश्वर्यमवाप्तवान् । 

राजराजेश्वरो दक्षः सावर्णिमनुरेव च ॥ 

मङ्गलोऽनेन मन्त्रेण सप्तद्वीपवतीपतिः । 

प्रियव्रतोत्तानपादौ केदारो नृप एव च ॥ 

एते च सिद्धा राजेन्द्रा मन्त्रेणानेन नारद । ( प्रकृतिखण्ड ३ ९ ॥) 

Laxmi maa mantra, laxmi maa stotram, laxmi maa dhyan mantram, laxmi maa dhyan stotram




इन्द्रकृतं लक्ष्मीस्तोत्रम् परा ॥ 

इन्द्र उवाच 

ॐ नमो महालक्ष्य । 

ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः । 

कृष्णप्रियायै सारायै पद्यायै च नमो नमः ॥ 

पापत्रेक्षणायै च पास्यायै नमो नमः । 

पद्मासनायै पग्रिन्यै वैष्णव्यै च नमो नमः ॥ 

सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः । 

सुखदायै मोक्षदाय सिद्धिदायै नमो नमः ॥ 

हरिभक्तिप्रदायै च हर्षदात्र्यै नमो नमः । 

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ 

कृष्णशोभास्वरूपायै रत्नपये च शोभने । 

सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ 

शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः । 

नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ 

वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे । 

स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मी पालये ॥ 

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । 

सुरभी गवां माता दक्षिणा यज्ञकामिनी ॥ 

अदितिर्देवमाता त्वं कमला कमलालये । 

स्वाहा त्वं च हविदर्दाने कव्यदाने स्वधा स्मृता ॥ 

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । 

शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ 

क्रोधहिंसावर्जिता च वरदा च शुभानना । 

परमार्थप्रदा त्वं च हरिदास्यप्रदा यया विना जगत् सर्व भस्मीभूतमसारकम् । 

जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ 

सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी । 

यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा ॥ 

त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः । 

धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ 

यथा माता स्तनन्धानां शिशूनां शैशवे सदा । 

तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ 

मातहीनः स्तनत्यक्तः स चेजीवति देवतः । 

त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ 

सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । 

वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ 

वयं यावत् त्वया हीना बन्धुहीनाच भिक्षुकाः । 

सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ 

राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि । 

कीर्ति देहि धनं देहि यशो मह्यं च देहि वै ॥ 

कामं देहि मतिं देहि भोगान् देहि हरिप्रिये । 

ज्ञानं देहि च धर्म च सर्वसौभाग्यमीप्सितम् ॥ 

प्रभावं च प्रतापं च सर्वाधिकारमेव च । 

जयं पराक्रमं युद्धे परमैश्चर्यमेव च ॥ 

इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह । 

प्रणनाम साश्रुनेत्रो मूर्धा चैव पुनः पुनः ।। 

ब्रह्मा च शंकरश्चैव शेषो धर्मश्च केशवः । 

सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ॥ 

देवेभ्यश्च वर दत्त्वा पुष्पमाला मनोहराम् । 

केशवाय ददी लक्ष्मीः संतुष्टा सुरसंसदि । 

ययुर्देवाश्च संतुष्टाः स्वं स्वं स्थानं च नारद । 

देवी ययौ हरेः क्रोडं इष्टा क्षीरोदशायिनः ॥ 

ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद । 

दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ 

इदं स्तोत्रं महापुण्यं त्रिसंध्यं यः पठेन्नरः । 

कुबेरतुल्यः स भवेद् राजराजेश्वरी महान् ॥ 

सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नरः । 

पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ 

सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयतः । 

महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ 

इति श्रीब्रह्मवैवर्ते ध्यानमन्त्रसहितमिन्द्रकृतं लक्ष्मीस्तोत्रं सम्पूर्णम् ।

 ( प्रकृतिखण्ड ३ ९।५१-७९ )



लक्ष्म्याः स्तोत्रम् 

नारायण उवाच देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः । बुद्धेरगोचरा सूक्ष्मा तेजोरूपां सनातनीम् ॥ 

अत्यनिर्वचनीयां च को वा निर्वतुमीश्वरः ॥ 

स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् । 

स्तौमि वाङ्मनसोः पारां किं वाहं जगदम्बिके । 

परां चतुर्णा वेदानां पारबीजं भवार्णवे । 

सर्वशस्याधिदेवीं च सर्वासामपि सम्पदाम् ॥ 

योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा । 

वेदानां च वेदविदा जननीं वर्णयामि किम् ।। 

यया विना जगत् सर्वमवस्तु निष्कलं ध्रुवम् । 

यथा स्तनान्धबालानां विना मात्रासुखं भवेत् ॥ 

प्रसीद जगतां माता रक्षास्मानतिकातरान् । 

वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः ।। 

नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः । 

ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः ॥ 

हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः । 

सर्वज्ञायै सर्वदायै महालक्ष्म्यै नमो नमः ॥ 

कुपुत्राः कुत्रचित् सन्ति न कुत्रचित् कुमातरः । 

कुत्र माता पुत्रदोषे तं विहाय च गच्छति ॥ 

हे मातदर्शनं देहि स्तनाधान् बालकानिव । 

कृपां कुरु कृपासिन्धुप्रियेऽस्मान् भक्तवत्सले ॥ 

इत्येवं कथितं वत्स पायाश्च शुभावहम् । 

सुखदं मोक्षदं सारं शुभदं सम्पदः पदम् ॥ 

इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् । 

महालक्ष्मीहं तस्य न जहाति कदाचन ।। 

च तत्रैवान्तरधीयत । 

देवो जगाम क्षीरोदं सुरैः सार्थ तदाजया । 

इति श्रीब्रह्मवैवर्ते मन्त्रध्यानसहितं लक्ष्म्याः स्तोत्रं सम्पूर्णम् ।

 

 महालक्ष्या मन्त्रो ध्यानं च 

महालक्ष्म्याश्च मन्त्रं च शृणु तं कथयामि ते । 

ॐ श्रीं कमलवासिन्यै स्वाहेति परमाद्भुतम् । 

ध्यानं च सामवेदोक्तं शृणु पूजाविधि मुने । 

दत्तं तस्मै कुमारेण पुष्कराक्षाय धीमते ॥ 

सहस्त्रदलपद्यस्था पद्मनाभप्रियां सतीम् । 

पद्यालयां पंचवक्त्रां परापत्राभलोचनाम् ॥ 

पद्यपुष्पप्रियां पद्मपुष्यतल्पविशायिनीम् । 

पद्मिनी पद्महस्तां . च पद्ममालाविभूषिताम् ।। 

पद्मभूषणभूषाढ्यां पद्मशोभाविवर्धिनीम् ।

 पकाननं पश्यन्ती सस्मितां तां भजे मुदा ॥

 इति श्रीब्रह्मवैवर्त मन्त्रसहितं महालक्ष्म्या ध्यानं सम्पूर्णम् । 


महालक्ष्मीकवचम् 

नारायण उवाच 

सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः । 

ऋषिश्छन्दश्च बृहती देवी पद्यालया स्वयम् ॥ 

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । 

पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥

 ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् । 

श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ॥ 

ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदावतु । 

ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥ 

ॐ श्रीं पद्यालयायै च स्वाहा दन्तं सदावतु । 

ॐ श्री कृष्णप्रियायै च दन्तरन्धं सदावतु ॥  

ॐ श्री नारायणेशाय मम कण्ठं सदावतु । 

ॐ श्रीं केशवकान्तायै मम स्कन्धं सदावतु ।। 

ॐ श्रीं पद्यनिवासिन्यै स्वाहा नाभिं सदावतु । 

ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदावतु ॥ 

ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा पृष्ठं सदावतु । 

ॐ ह्रीं श्रीं श्रियै स्वाहा मम हस्तौ सदावतु ।। 

ॐ श्री निवासकान्तायै मम पादौ सदावतु । 

ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदावतु ।। 

प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया । 

पद्मा मां दक्षिणे पातु नैऋत्यां श्रीहरिप्रिया । 

पद्मालया पश्चिमे मां वायव्यां पातु श्री : स्वयम् । 

उत्तरे कमला पातु ऐशान्यां सिन्धुकन्यका ॥ 

नारायणेशी पातूर्ध्वमधो विष्णुप्रियावतु । 

संततं सर्वतः पातु विष्णुप्राणाधिका मम ।। 

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । 

सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ 

सुवर्णपर्वत दत्त्वा मेरुतुल्यं द्विजातये । 

यत् फलं लभते धर्मी कवचेन ततोऽधिकम् ।। 

गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् तु यः । 

कण्ठे वा दक्षिणे बाहौ स श्रीमान् प्रतिजन्मनि ॥ 

अस्ति लक्ष्मीगृह तस्य निश्चला शतपूरुषम् । 

देवेन्द्रश्चासुरेन्द्रश्च सोऽवभ्यो निश्चितं भवेत् ।। 

स सर्वपुण्यवान् श्रीमान् सर्वयज्ञेषु दीक्षितः । 

स स्त्रातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ 

यस्मै कस्मै न दातव्यं लोभमोहभयैरपि । 

गुरुभक्ताय शिष्याय शरणाय प्रकाशयेत् ॥ 

इदं कवचमज्ञात्वा जपेलक्ष्मी जगत्प्रसूम् । 

कोटिसंख्यं प्रजमोऽपि न मन्त्रः सिद्धिदायकः । 

इति श्रीब्रह्मवैवर्ते महालक्ष्मीकवचं सम्पूर्णम् ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

Close Menu